सूत्रम्
अर्मे चावर्णं द्व्यच्त्र्यच्॥ ६।२।९०
काशिका-वृत्तिः
अर्मे च अवर्णम् द्व्यच् त्र्यच् ६।२।९०
अर्मशब्दे उत्तरपदे द्व्यच् त्र्यच् पूर्वपदम् अवर्णान्तम् आद्युदात्तं भवति। दत्तार्मम्। गुप्तार्मम्। कुक्कुटार्मम्। वायसार्मम्। अवर्णम् इति किम्? वृहदर्मम्। द्व्यच् त्र्यचिति किम्? कपिञ्जलार्मम्। अमहन्नवम् इत्येव, महार्मम्। नवार्मम्।
न्यासः
अर्मे चावर्णं द्व्यच्त्र्यच्?। , ६।२।९०